हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Srimad Bhagavad Gita – श्रीमद्भगवद्गीता contact-sanatanadharm
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

 

Sri Lalita Lakaradi Shatanama Stotram – श्री ललिता लकारादि शतनाम स्तोत्रम्


पूर्वपीठिका –
कैलासशिखरासीनं देवदेवं जगद्गुरुम् ।
पप्रच्छेशं परानन्दं भैरवी परमेश्वरम् ॥ १ ॥

श्रीभैरव्युवाच ।
कौलेश श्रोतुमिच्छामि सर्वमन्त्रोत्तमोत्तमम् ।
ललिताया शतनाम सर्वकामफलप्रदम् ॥ २ ॥

श्रीभैरवोवाच ।
शृणु देवि महाभागे स्तोत्रमेतदनुत्तमम् ।
पठनाद्धारणादस्य सर्वसिद्धीश्वरो भवेत् ॥ ३ ॥

षट्कर्माणि च सिद्ध्यन्ति स्तवस्यास्य प्रसादतः ।
गोपनीयं पशोरग्रे स्वयोनिमपरे यथा ॥ ४ ॥

ललिताया लकारादि नामशतकस्य देवि ।
राजराजेश्वरो ऋषिः प्रोक्तो छन्दोऽनुष्टुप् तथा ॥ ५ ॥

देवता ललितादेवी षट्कर्मसिद्ध्यर्थे तथा ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ ६ ॥

वाक्-काम-शक्तिबीजेन करषडङ्गमाचरेत् ।
प्रयोगे बालात्र्यक्षरी योजयित्वा जपं चरेत् ॥ ७ ॥

अस्य श्री ललिता लकारादि शतनाममालामन्त्रस्य श्रीराजराजेश्वरो ऋषिः अनुष्टुप् छन्दः श्रीललितादेवी देवता षट्कर्मसिद्ध्यर्थे धर्मार्थकाममोक्षार्थे पाठे विनियोगः ।

करन्यासः –
ओं ऐं अङ्गुष्ठाभ्यां नमः ।
ओं क्लीं तर्जनीभ्यां नमः ।
ओं सौः मध्यमाभ्यां नमः ।
ओं ऐं अनामिकाभ्यां नमः ।
ओं क्लीं कनिष्ठिकाभ्यां नमः ।
ओं सौः करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः –
ओं ऐं हृदयाय नमः ।
ओं क्लीं शिरसे स्वाहा ।
ओं सौः शिखायै वषट् ।
ओं ऐं कवचाय हुम् ।
ओं क्लीं नेत्रत्रयाय वौषट् ।
ओं सौः अस्त्राय फट् ।

अथ ध्यानम् –
बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् ।
पाशाङ्कुशधनुर्बाणान् धारयन्तीं शिवां भजे ॥

अथ स्तोत्रम् –
ललिता लक्ष्मी लोलाक्षी लक्ष्मणा लक्ष्मणार्चिता ।
लक्ष्मणप्राणरक्षिणी लाकिनी लक्ष्मणप्रिया ॥ १ ॥

लोला लकारा लोमेशा लोलजिह्वा लज्जावती ।
लक्ष्या लाक्ष्या लक्षरता लकाराक्षरभूषिता ॥ २ ॥

लोललयात्मिका लीला लीलावती च लाङ्गली ।
लावण्यामृतसारा च लावण्यामृतदीर्घिका ॥ ३ ॥

लज्जा लज्जामती लज्जा ललना ललनप्रिया ।
लवणा लवली लसा लाक्षकी लुब्धा लालसा ॥ ४ ॥

लोकमाता लोकपूज्या लोकजननी लोलुपा ।
लोहिता लोहिताक्षी च लिङ्गाख्या चैव लिङ्गेशी ॥ ५ ॥

लिङ्गगीति लिङ्गभवा लिङ्गमाला लिङ्गप्रिया ।
लिङ्गाभिधायिनी लिङ्गा लिङ्गनामसदानन्दा ॥ ६ ॥

लिङ्गामृतप्रीता लिङ्गार्चनप्रीता लिङ्गपूज्या ।
लिङ्गरूपा लिङ्गस्था च लिङ्गालिङ्गनतत्परा ॥ ७ ॥

लतापूजनरता च लतासाधकतुष्टिदा ।
लतापूजकरक्षिणी लतासाधनसिद्धिदा ॥ ८ ॥

लतागृहनिवासिनी लतापूज्या लताराध्या ।
लतापुष्पा लतारता लताधारा लतामयी ॥ ९ ॥

लतास्पर्शनसन्तुष्टा लताऽऽलिङ्गनहर्षिता ।
लताविद्या लतासारा लताऽऽचारा लतानिधी ॥ १० ॥

लवङ्गपुष्पसन्तुष्टा लवङ्गलतामध्यस्था ।
लवङ्गलतिकारूपा लवङ्गहोमसन्तुष्टा ॥ ११ ॥

लकाराक्षारपूजिता च लकारवर्णोद्भवा ।
लकारवर्णभूषिता लकारवर्णरुचिरा ॥ १२ ॥

लकारबीजोद्भवा तथा लकाराक्षरस्थिता ।
लकारबीजनिलया लकारबीजसर्वस्वा ॥ १३ ॥

लकारवर्णसर्वाङ्गी लक्ष्यछेदनतत्परा ।
लक्ष्यधरा लक्ष्यघूर्णा लक्षजापेनसिद्धिदा ॥ १४ ॥

लक्षकोटिरूपधरा लक्षलीलाकलालया ।
लोकपालेनार्चिता च लाक्षारागविलेपना ॥ १५ ॥

लोकातीता लोपामुद्रा लज्जाबीजस्वरूपिणी ।
लज्जाहीना लज्जामयी लोकयात्राविधायिनी ॥ १६ ॥

लास्यप्रिया लयकरी लोकलया लम्बोदरी ।
लघिमादिसिद्धिदात्री लावण्यनिधिदायिनी ।
लकारवर्णग्रथिता लम्बीजा ललिताम्बिका ॥ १७ ॥

फलश्रुतिः –
इति ते कथितं देवि गुह्याद्गुह्यतरं परम् ।
प्रातःकाले च मध्याह्ने सायाह्ने च सदा निशि ।
यः पठेत् साधकश्रेष्ठो त्रैलोक्यविजयी भवेत् ॥ १ ॥

सर्वपापविनिर्ममुक्तः स याति ललितापदम् ।
शून्यागारे शिवारण्ये शिवदेवालये तथा ॥ २ ॥

शून्यदेशे तडागे च नदीतीरे चतुष्पथे ।
एकलिङ्गे ऋतुस्नातागेहे वेश्यागृहे तथा ॥ ३ ॥

पठेदष्टोत्तरशतनामानि सर्वसिद्धये ।
साधको वाञ्छां यत्कुर्यात् तत्तथैव भविष्यति ॥ ४ ॥

ब्रह्माण्डगोलके याश्च याः काश्चिज्जगतीतले ।
समस्ताः सिद्धयो देवि करामलकवत्सदा ॥ ५ ॥

साधकस्मृतिमात्रेण यावन्त्यः सन्ति सिद्धयः ।
स्वयमायान्ति पुरतो जपादीनां तु का कथा ॥ ६ ॥

अयुतावर्तनाद्देवि पुरश्चर्याऽस्य गीयते ।
पुरश्चर्यायुतः स्तोत्रः सर्वकर्मफलप्रदः ॥ ७ ॥

सहस्रं च पठेद्यस्तु मासार्धं साधकोत्तमः ।
दासीभूतं जगत्सर्वं मासार्धाद्भवति ध्रुवम् ॥ ८ ॥

नित्यं प्रतिनाम्ना हुत्वा पलाशकुसुमैर्नरः ।
भूलोकस्थाः सर्वकन्याः सर्वलोकस्थितास्तथा ॥ ९ ॥

पातालस्थाः सर्वकन्याः नागकन्याः यक्षकन्याः ।
वशीकुर्यान्मण्डलार्धात्संशयो नात्र विद्यते ॥ १० ॥

अश्वत्थमूले पठेत् शतवारं ध्यानपूर्वकम् ।
तत् क्षणाद्व्याधिनाशश्च भवेद्देवि न संशयः ॥ ११ ॥

शून्यागारे पठेत् स्तोत्रं सहस्रं ध्यानपूर्वकम् ।
लक्ष्मी प्रसीदति ध्रुवं स त्रैलोक्यं वशिष्यति ॥ १२ ॥

प्रेतवस्त्रं भौमे ग्राह्यं रिपुनाम च वेष्टितम् ।
प्राणप्रतिष्ठां कृत्वा तु पूजां चैव हि कारयेत् ॥ १३ ॥

श्मशाने निखनेद्रात्रौ द्विसहस्रं पठेत्ततः ।
जिह्वास्तम्भनमाप्नोति सद्यो मूकत्वमाप्नुयात् ॥ १४ ॥

श्मशाने च पठेत् स्तोत्रं अयुतार्धं सुबुद्धिमान् ।
शत्रुक्षयो भवेत् सद्यो नान्यथा मम भाषितम् ॥ १५ ॥

प्रेतवस्त्रं शनौ ग्राह्यं प्रतिनाम्ना सम्पुटितम् ।
शत्रुनाम लिखित्वा च प्राणप्रतिष्ठां कारयेत् ॥ १६ ॥

ततः ललितां सम्पूज्य कृष्णधत्तूरपुष्पकैः ।
श्मशाने निखनेद्रात्रौ शतवारं पठेत् स्तोत्रम् ॥ १७ ॥

ततो मृत्युमवाप्नोति देवराजसमोऽपि सः ।
श्मशानाङ्गारमादाय मङ्गले शनिवारे वा ॥ १८ ॥

प्रेतवस्त्रेण संवेष्ट्य बध्नीयात् प्रेतरज्जुना ।
दशाभिमन्त्रितं कृत्वा खनेद्वैरिवेश्मनि ॥ १९ ॥

सप्तरात्रान्तरे तस्योच्चाटनं भ्रामणं भवेत् ।
कुमारीं पूजयित्वा तु यः पठेद्भक्तितत्परः ॥ २० ॥

न किञ्चिद्दुर्लभं तस्य दिवि वा भुवि मोदते ।
दुर्भिक्षे राजपीडायां सङ्ग्रामे वैरिमध्यके ॥ २१ ॥

यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः ।
तत्र तत्राभयं तस्य भवत्येव न संशयः ॥ २२ ॥

वामपार्श्वे समानीय शोधितां वरकामिनीम् ।
जपं कृत्वा पठेद्यस्तु तस्य सिद्धिः करे स्थिता ॥ २३ ॥

दरिद्रस्तु चतुर्दश्यां कामिनीसङ्गमैः सह ।
अष्टवारं पठेद्यस्तु कुबेरसदृशो भवेत् ॥ २४ ॥

श्रीललितां महादेवी नित्यं सम्पूज्य मानवः ।
प्रतिनाम्ना जुहुयात्स धनराशिमवाप्नुयात् ॥ २५ ॥

नवनीतं चाभिमन्त्र्य स्त्रीभ्यो दद्यान्महेश्वरि ।
वन्ध्यां पुत्रप्रदं देवि नात्र कार्या विचारणा ॥ २६ ॥

कण्ठे वा वामबाहौ वा योनौ वा धारणाच्छिवे ।
बहुपुत्रवती नारी सुभगा जायते ध्रुवम् ॥ २७ ॥

उग्र उग्रं महदुग्रं स्तवमिदं ललितायाः ।
सुविनीताय शान्ताय दान्तायातिगुणाय च ॥ २८ ॥

भक्ताय ज्येष्ठपुत्राय गुरुभक्तिपराय च ।
भक्तभक्ताय योग्याय भक्तिशक्तिपराय च ॥ २९ ॥

वेश्यापूजनयुक्ताय कुमारीपूजकाय च ।
दुर्गाभक्ताय शैवाय कामेश्वरप्रजापिने ॥ ३० ॥

अद्वैतभावयुक्ताय शक्तिभक्तिपराय च ।
प्रदेयं शतनामाख्यं स्वयं ललिताज्ञया ॥ ३१ ॥

खलाय परतन्त्राय परनिन्दापराय च ।
भ्रष्टाय दुष्टतत्त्वाय परीवादपराय च ॥ ३२ ॥

शिवाभक्ताय दुष्टाय परदाररताय च ।
वेश्यास्त्रीनिन्दकाय च पञ्चमकारनिन्दके ॥ ३३ ॥

न स्तोत्रं दर्शयेद्देवी मम हत्याकरो भवेत् ।
तस्मान्न दापयेद्देवी मनसा कर्मणा गिरा ॥ ३४ ॥

अन्यथा कुरुते यस्तु स क्षीणायुर्भवेद्ध्रुवम् ।
पुत्रहारी च स्त्रीहारी राज्यहारी भवेद्ध्रुवम् ॥ ३५ ॥

मन्त्रक्षोभश्च जायते तस्य मृत्युर्भविष्यति ।
क्रमदीक्षायुतानां च सिद्धिर्भवति नान्यथा ॥ ३६ ॥

क्रमदीक्षायुतो देवी क्रमाद्राज्यमवाप्नुयात् ।
क्रमदीक्षासमायुक्तः कल्पोक्तसिद्धिभाग्भवेत् ॥ ३७ ॥

विधेर्लिपिं तु सम्मार्ज्य किङ्करत्वं विसृज्य च ।
सर्वसिद्धिमवाप्नोति नात्र कार्या विचारणा ॥ ३८ ॥

क्रमदीक्षायुतो देवी मम समो न संशयः ।
गोपनीयं गोपनीयं गोपनीयं सदाऽनघे ॥ ३९ ॥

स दीक्षितः सुखी साधुः सत्यवादी जितेन्द्रयः ।
स वेदवक्ता स्वाध्यायी सर्वानन्दपरायणः ॥ ४० ॥

स्वस्मिन् ललितां सम्भाव्य पूजयेज्जगदम्बिकाम् ।
त्रैलोक्यविजयी भूयान्नात्र कार्या विचारणा ॥ ४१ ॥

गुरुरूपं शिवं ध्यात्वा शिवरूपं गुरुं स्मरेत् ।
सदाशिवः स एव स्यान्नात्र कार्या विचारणा ॥ ४२ ॥

इति श्रीकौलिकार्णवे श्रीभैरवीसंवादे षट्कर्मसिद्धदायक श्रीमल्ललिताया लकारादिशतनामस्तोत्रम् ।


Sri Lalitha Stotras – श्री ललिता स्तोत्राणि

 Lalitha Stotras – श्री ललिता स्तोत्राणि

 

 

 

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.